|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.169. अध्यायः 169
Mahabharata - Drona Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-169-0x(4718)(52681)
शतानीकं शरैस्तूर्णं निर्दहन्तं चमूं तव।
चित्रसेनस्तव सुतो वारयामास भारत॥ 7-169-1(52682)
नाकुलिश्चित्रसेनं तु विद्ध्वा पञ्चभिराशुगैः।
स तु तं प्रतिविव्याध दशभिर्निशितैः शरैः॥ 7-169-2(52683)
चित्रसेनो महाराज शतानीकं पुनर्युधि।
नवभिर्निशितैर्बाणैराजघान स्तनान्तरे॥ 7-169-3(52684)
नाकुलिस्तस्य विशिखैर्वर्म सन्नतपर्वभिः।
गात्रात्सञ्चावयामास तदद्भुतमिवाभवत्॥ 7-169-4(52685)
सोपेतवर्मा पुत्रस्ते विरराज भृशं नृप।
उत्सृज्य काले राजेन्द्र निर्मोकमिव पन्नगः॥ 7-169-5(52686)
ततोऽस्य निशितैर्बाणैर्ध्वजं चिच्छेद नाकुलिः।
धनुश्चैव महाराज यतमानस्य संयुगे॥ 7-169-6(52687)
स च्छिन्नधन्वा समरे विवर्मा च महारथः।
धनुरन्यन्महाराज जग्राहारिविदारणम्॥ 7-169-7(52688)
ततस्तूर्णं चित्रसेनो नाकुलिं नवभिः शरैः।
विव्याध समरे क्रुद्धो भरतानां महारथः॥ 7-169-8(52689)
शतानीकोऽथ सङ्क्रुद्धश्चित्रसेनस्य मारिष।
जघान चतुरो वाहान्सारथिं च नरोत्तमः॥ 7-169-9(52690)
अवप्लुत्य रथात्तस्माच्चित्रसेनो महारथः।
नाकुलिं पञ्चविंशत्या शराणामार्दयद्बली॥ 7-169-10(52691)
तस्य तत्कुर्वतः कर्म नकुलस्य सुतो रणे।
अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम्॥ 7-169-11(52692)
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः।
आरुरोह रथं तूर्णं हार्दिक्यस्य महात्मनः॥ 7-169-12(52693)
द्रुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम्।
वृषसेनोऽभ्ययात्तूर्णं किरञ्शरशतैस्तदा॥ 7-169-13(52694)
यज्ञसेनस्तु समरे कर्णपुत्रं महारथम्।
षष्ट्या शराणां विव्याध बाह्वोरुरसि चानघ॥ 7-169-14(52695)
वृषसेनस्तु सङ्क्रुद्धो यज्ञसेनं रथे स्थितम्।
बहुभिः सायकैस्तीक्ष्णैराजघान स्तनान्तरे॥ 7-169-15(52696)
तावुभौ शरनुन्नाङ्गौ शरकण्टकितौ रणे।
व्यभ्राजेतां महाराज श्वाविधौ शललैरिव॥ 7-169-16(52697)
रुक्मपुङ्खैः प्रसन्नाग्रैः शरैश्छिन्नतनुच्छदौ।
रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे॥ 7-169-17(52698)
तपनीयनिभौ चित्रौ कल्पवृक्षाविवाद्भुतौ।
किंशुकाविव चोत्फुल्लौ व्यकाशेतां रणाजिरे॥ 7-169-18(52699)
वृषसेनस्ततो राजन्द्रुपदं नवभिः शरैः।
विद्ध्वा विव्याध सप्तत्या पुनरन्यैस्त्रिभिस्त्रिभिः॥ 7-169-19(52700)
ततः शरसहस्राणि विमुञ्चन्विबभौ तदा।
कर्णपुत्रो महाराज वर्षमाण इवाम्बुदः॥ 7-169-20(52701)
[द्रुपदस्तु ततः क्रुद्धो वृषसेनस्य कार्मुकम्।
द्विधा चिच्छेद भल्लेन पीतेन निशितेन च॥ 7-169-21(52702)
सोऽन्यत्कार्मुकमादाय रुक्मबद्धं नवं दृढम्।
तूणादाकृष्य विमलं भल्लं पीतं शितं दृढम्॥ 7-169-22(52703)
कार्मुके योजयित्वा तं द्रुपदं सन्निरीक्ष्य च।
आकर्णपूर्णं मुमुचे त्रासयन्सर्वसोमकान्॥ 7-169-23(52704)
हृदयं तस्य भित्त्वा च जगाम वसुधातलम्।
कश्मलं प्राविशद्राजा वृषसेनशराहतः॥ 7-169-24(52705)
सारथिस्तमपोवाह स्मरन्सारथिचेष्टितम्।
तस्मिन्प्रभग्ने राजेन्द्र पाञ्चालानां महारथे॥] 7-169-25(52706)
ततस्तु द्रुपदानीकं शरैश्छिन्नतनुच्छदम्।
सम्प्राद्रवद्रणाद्राजन्निशीथे भैरवे सति॥ 7-169-26(52707)
प्रदीपैरपरित्यक्तैर्ज्वलद्भिस्तैः समन्ततः।
व्यराजद्वसुधा तत्र वीताभ्रा द्यौरिव ग्रहैः॥ 7-169-27(52708)
तथाङ्गदैर्निपतितैर्व्यराजत वसुन्धरा।
प्रावृट्काले महाराज विद्युद्भिरिव तोयदः॥ 7-169-28(52709)
ततः कर्णसुतात्त्रस्ताः सोमका विप्रदुद्रुवुः।
यथेन्द्रभयवित्रस्ता दानवास्तारकामये॥ 7-169-29(52710)
तेनार्द्यमानाः समरे द्रवमाणाश्च सोमकाः।
व्यराजन्त महाराज प्रदीपैरवभासिताः॥ 7-169-30(52711)
तांस्तु निर्जित्य समरे कर्णपुत्रो व्यरोचत।
मध्यन्दिनमनुप्राप्तो घर्मांशुरिव भारत॥ 7-169-31(52712)
तेषु राजसहस्रेषु तावकेषु परेषु च।
एक एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान्॥। 7-169-32(52713)
स विजित्य रणे शूरान्सोमकानां महारथान्।
जगाम त्वरितस्तत्र यत्र राजा युधिष्ठिरः॥ 7-169-33(52714)
प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून्।
दुःशासनस्तव सुतः प्रत्यगच्छन्महारथः॥ 7-169-34(52715)
तयोः समागमो राजंश्चित्ररूपो बभूव ह।
व्यपेतजलदे व्योम्नि बुधभास्करयोरिव॥ 7-169-35(52716)
प्रतिविन्ध्यं तु समरे कुर्वाणां कर्म दुष्करम्।
`अपूजयन्महाराज तव सैन्ये महारथाः'।
दुःशासनस्त्रिभिर्बाणैर्ललाटे समविध्यत॥ 7-169-36(52717)
सोऽतिविद्धो बलवता तव पुत्रेण धन्विना।
विरराज महाबाहुः सशृङ्ग इव पर्वतः॥ 7-169-37(52718)
दुःशासनं तु समरे प्रतिविन्ध्यो महारथः।
नवभिः सायकैर्विद्धा पुनर्विव्याध सप्तभिः॥ 7-169-38(52719)
तत्र भारत पुत्रस्ते कृतवान्कर्म दुष्करम्।
प्रतिविन्ध्यहयानुग्रैः पातयामास सायकैः॥ 7-169-39(52720)
सारथिं चास्य भल्लेन ध्वजं च समपातयत्।
रथं च तिलशो राजन्व्यधमत्तस्य धन्विनः॥ 7-169-40(52721)
पताकाश्च सतूणीरा रश्मीन्योक्राणि च प्रभो।
चिच्छेद तिलशः क्रुद्धःशरैः सन्नतपर्वभिः॥ 7-169-41(52722)
विरथः स तु धर्मात्मा धनुष्पाणिरवस्थितः।
अयोधयत्तव सुतं किरञ्शरशतान्बहून्॥ 7-169-42(52723)
क्षुरप्रेण धनुस्तस्य चिच्छेद तनयस्तव।
अथैनं दशभिर्बाणेश्छिन्नधन्वानमार्दयत्॥ 7-169-43(52724)
तं दृष्ट्वा विरथं तत्र भ्रातरोऽस्य महारथाः।
अन्ववर्तन्त सङ्ग्रामे महत्या सेनया सह॥ 7-169-44(52725)
आप्लुतः स ततो यानं सुतसोमस्य भास्वरम्।
धनुर्गृह्य महाराज विव्याध तनयं तव॥ 7-169-45(52726)
ततस्तु तावकाः सर्वे परिवार्य सुतं तव।
अभ्यवर्तन्त वेगेन महत्या सेनया वृताः॥ 7-169-46(52727)
ततः प्रववृते युद्धं तव तेषां च भारत।
निशीथे दारुणे काले यमराष्ट्रविवर्धनम्॥ ॥ 7-169-47(52728)
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे एकोनसप्तत्यधिकशततमोऽध्यायः॥ 169 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-169-1 कुण्डलिताः पञ्च श्लोकाः घ.ङ.झ.पुस्तकेष्वेव सन्ति॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|